Samanya Gyan Logo

Explore Your Path to Success

Prepare for your future with our comprehensive collection of exams and test series designed to help you achieve excellence.

संस्कृत व्याकरण शास्त्र प्रश्नोत्तरी(sanskrit vyaakaran shaastr prashnottaree)

संस्कृत व्याकरण शास्त्र प्रश्नोत्तरी


(sanskrit vyaakaran shaastr prashnottaree)


(१.) “अष्टाध्यायी” इत्यस्य ग्रन्थस्य रचनाकारः कः ? – पाणिनिः
(२.) अष्टाध्याय्यां कति अध्यायाः ? – अष्टौ
(३.) अष्टाध्याय्यां कति पादाः ? -३२
(४.)  सिद्धान्तकौमुदी इत्यस्य रचयिता क: ? – भट्टोजिदीक्षित:।
(५.) बालमनोरमाटीकाया: कर्ता क: ? – वासुदेवदीक्षित:।
(६.) तत्त्वबोधिनीव्याख्याया: कर्ता क: ? – श्रीज्ञानेन्द्रसरस्वती ।
(७.) प्रक्रियाकौमुदी इत्यस्य ग्रन्थस्य कर्त्ता कः ? – रामचन्द्रः
(८.) अष्टाध्याय्यां प्रत्याहारसूत्राणि कति ? – चतुर्दश।
(९.) प्रत्याहारसूत्रेषु को‌ऽयं वर्ण: द्विरनुबध्यते ?- णकार:।
(१०.) प्रत्याहारसूत्रेषु को‌ऽयं वर्ण: द्विरुपदिष्ट: ? – हकार:।
(११.) किमर्थमुपदिष्टानि प्रत्याहारसूत्राणि ?- अणादिप्रत्याहारसंज्ञार्थानि।
(१२.) वेदपुरुषस्य मुखात्मकं वेदाङ्गं किम् ? – व्याकरणम् ।
(१३.) हकारादिषु अकार: किमर्थम् ?- उच्चारणार्थ:।
(१४.) सूत्राणां प्रकाराः कति ? के ते ? – सप्त– संज्ञा,परिभाषा, विधि:, नियम:, निषेधः, अतिदेश:,अधिकार:।
(१५.) व्याकरणस्य कति सम्प्रदायाः सन्ति ? – अष्टौ ।
(१६.) किं नाम संज्ञासूत्रम् ? – संज्ञासंज्ञिसम्बन्धबोधकं सूत्रम् ।
(१७.) किं नाम परिभाषात्वम् ? – अनियमे नियमकारिणीत्वम्  ।
(१८) किं नाम विधिसूत्रम् ? – आगम-आदेशादिविधायकं सूत्रम् ।
(१९.) सम्प्रति व्याकरणस्य प्रतिनिधिग्रन्थः कः ? – शब्दानुशासनम् ।
(२०.)  को नाम नियम: ? – सिद्धे सति आरभ्यमाण: विधि: नियम: ।
(२१.) को नाम अतिदेश: ? – अविद्यमानस्य धर्मस्य विद्यमानत्वकल्पनम् ।
(२२.) किं नाम अधिकारत्वम् ? – स्वदेशेफलशून्यत्वे सति उत्तरत्र फलजनकत्वम् ।
(२३.) अष्टाध्याय्याः प्रथमसूत्रं किम् ? – वृद्धिरादैच् ।
(२४.) अन्त्यहलाम् इत्संज्ञाविधायकं सूत्रं किम् ?- हलन्त्यम् (१.३.३)
(२५.) अनुनासिकाचाम् इत्संज्ञाविधायकं सूत्रं किम् ?- उपदेशेऽजनुनासिक इत् (१.३.२)
(२६.) आदिरन्त्येन सहेता (१.१.७१) इति सूत्रेण किं विधीयते  ?- प्रत्याहारसंज्ञा ।
(२७.) प्रत्याहारेषु इतामग्रहणे किं प्रमानम् ? – अनुनासिक इत्यादिनिर्देश:।
(२८.) कस्य ह्रस्व: , दीर्घ:, प्लुत: इति संज्ञा ?
उत्तरः–एकमात्राकालिकस्य अच: ह्रस्व: इति, द्विमात्राकालिकस्याच: दीर्घ: इति, त्रिमात्राकालिकस्य अच: प्लुत: इति संज्ञा।
(२९.) अनुनासिकसंज्ञासूत्रम् किम् ?- मुखनासिकावचनोऽनुनासिक:(१.१.८)।
(३०.) अकारस्य कति भेदा: ?- अष्टादश ।
(३१.) लृवर्णस्य क: भेद: नास्ति ? – दीर्घ: ।
(३२.) एचां क: भेद: नास्ति ? – ह्रस्व: ।
(३३.) सवर्णसंज्ञासूत्रं किम् ? – तुल्यास्यप्रयत्नं सवर्णम् (१.१.९) ।
(३४.) कण्ठस्थानं केषां वर्णानाम् ? – अकुहविसर्जनीयानाम् ।
(३५) तालुस्थाने के के वर्णा: निष्पद्यन्ते ? – इचुयशा:। (इ,ई,च्,छ्,ज्,झ्,ञ्,य्,श्)
(३६.) केषां वर्णानाम् उत्पत्तिस्थानं मूर्धा ? – ऋटुरषाणाम् ।
(३७.) लृतुलसा: कुत्र निष्पद्यन्ते ? – दन्तेषु ।
(३८.) उपूपधमानीयानाम् उत्पत्तिस्थानं किम् ? – ओष्ठौ।
(३९.) ञमङणनानां क: अधिक: गुण: ? – नासिका ।
(४०.) वकारस्य निस्पत्तिस्थानं किम् ? – दन्तोष्ठम् ।
(४१.) अनुस्वार: क्व निष्पद्यते ? – नासिकायाम् ।
(४२.) प्रयत्न: कतिविध: ? – द्विविध: ।
(४३.) तौ प्रयत्नौ कौ ? – आभ्यन्तर:, बाह्य: ।
(४४.) आभ्यन्तर: कतिविध: ? – पञ्चविधः ।
(४५.) ते आभ्यन्तरा: के ? – स्पृष्टम् , ईषत्-स्पृष्टम् , विवृतम् , ईषत्-विवृतम् , संवृतम् च ।
(४६.) स्पृष्टप्रयत्न: केषां वर्णानाम् ? – स्पर्शानाम्।
(४७.) ईषत्स्पृष्टं केषां वर्णानाम् ? – अन्त:स्थानाम्।
(४८.) केषां वर्णानां विवृतप्रयत्न: ? – ऊष्माणां स्वराणाञ्च ।
(४९.) कस्य संवृतम् ? – ह्रस्वस्य अकारस्य प्रयोगे संवृतम्।
(५०.) विवृतस्य अकारस्य संवृतत्वं केन सूत्रेण विधीयते ? – अ अ (८.४.६७)
(५१.) पूर्वत्रासिद्धं (८.२.१) कीदृशं सूत्रम् ? – अधिकारसूत्रम् ।
(५२.) यमो नाम क: ? – वर्गेषु आद्यानां चतुर्णां पञ्चमे वर्णे परे पूर्व सदृश: कश्चिद् वर्ण: ” यम:” भवति।
(५३.) स्पर्शवर्णा: के ? – ककारादारभ्य मकारपर्यन्तम्। (कादयो मावसानाः ।
(५४.) अन्त:स्था: के ? – य्, र्, ल्, व् ।
(५५.) ऊष्माण: के ? – श्, ष्, स्, ह् ।
(५६.) स्वरा: के ? – अच: ।
(५७.) को नाम जिह्वामूलीय: ? – क ख इति कखाभ्यां प्राग् अर्धविसर्गसदृश: ।

(५८.) उपध्मानीयो नाम क: ? – प फ इति पफाभ्यां प्राग् अर्धविसर्गसदृश: ।
(५९.) सवर्णग्राहकं सूत्रं किम् ? -अणुदित्सवर्णस्य चाप्रत्यय:(१.१.६८)
(६०.) बाह्यप्रयत्ना: कति ? – एकादश ।
(६१.) ते च के ? – विवार:, संवार:, श्वास:, नाद: घोष:, अघोष:, अल्पप्राण:, महाप्राण:, उदात्त: अनुदात्त:, स्वरित: ।
(६२.) तपर: इत्यत्र कथं विग्रह: ? क: समास: ? – त: परो यस्मात् सो तपर इति बहुव्रीहि:, तात् पर: तपर: इति तत्पुरुषो वा ।
55. वृद्धिरादैच् इति कीदृशं सूत्रम् ? - संज्ञासूत्रम् ।