ल्यप् प्रत्यय

(1.) “ल्यप्” का “य” शेष रहता है । ल् और प् हट जाते हैं ।
(2.) इसका भूतकाल में ही प्रयोग होता है ।
(3.) इसका भी अर्थ “करके” होता है।
(4.) वाक्य में इसका प्रयोग भी प्रथम और गौण क्रिया के साथ ही होता है ।
(5.) यह भी दो वाक्यों को जोडने का काम करता है ।
(6.) इसका केवल एक ही परिस्थिति में प्रयोग होता है, जो महत्त्वपूर्ण है, और वह यह है कि जब धातु से पूर्व कोई उपसर्ग आ जाए तो “क्त्वा” के स्थान पर इसका (ल्यप्) प्रयोग होता है ।

क्त्वा का प्रयोगः—जब हम हस् धातु के साथ क्त्वा का प्रयोग करते हैं तो हसित्वा बनता है—
क्त्वा हस् हसित्वा
अब इसी हस् धातु से पूर्व “वि” उपसर्ग लाते हैं तो “विहस्य” बनेगाः–
वि हस् ल्यप्–विहस्य

हसित्वा और विहस्य इन दोनों शब्दों का अर्थ समान हैः–“हँस करके”
विहस्य हृषीकेशः उवाच

पठित्वा
सम्पठ्य
स्नात्वा
प्रस्नाय
जित्वा वा भोक्ष्यसे महीम्
विजित्य
त्यक्त्वा
परित्यज्यः—
यो ध्रुवाणि परित्यज्य अध्रुवाणि निषेवते ।
ध्रुवाणि तस्य नश्यन्ति अध्रुवं नष्टमेव हि ।।

1. नञ् अव्यय यदि क्त्वा-प्रत्ययान्त शब्द के पूर्व में आयेगा तो क्त्वा के स्थान पर ल्यप् नहीं होगा—“समासेsनञ्पूर्वे क्त्वो ल्यप्—7.1.35
उदा–पठित्वा—पढ करके
अपठित्वा–न पढ करके

इदम् औषधं माम् अनुक्त्वा खलु भुक्त्वा ।
(यह दवाई मुझे विना बताये न खाना।

पाठं सम्पठ्य बालकोSत्रागतः।
(बालक पाठ पढ करके यहाँ आया)

लेखम् उल्लिख्य रामः गतः ।
रामम् आहूय गुरुः पृष्टवान् ।
आरुणिः वेदम् अधीत्य अत्र आगतः ।
परीक्षाम् उत्तीर्य शिष्यः गृहम् आगतवान् ।
जलम् आनीय गुरुम् प्रयच्छ ।
शोकम् परित्यज्य वार्ताम् कुरु ।
वाक्यम् अनूद्य लिख ।
वाक्यम् प्रोच्य हृषीकेशः उवाच।
धनं संगृह्य अत्रागच्छ ।   


(2.) गम् धातु से दो रूप बनेंगे—आगम्य और आगत्य ।

इसी प्रकार—प्रणम्य और प्रणत्य ।
शिष्यम् आहूय गुरुः उक्तवान् ।
मातापितरौ प्रणम्य पुत्रः विदेशं गच्छति ।
छात्राः पुस्तकानि अधीत्य पाठं स्मरन्ति ।
भक्तः शिवं सम्पूज्य सुखं लभते ।
सेवकः स्वामिनं प्रशस्य सुखं लभते ।
मालिनी सुरेखायै पुष्पगुच्छं प्रदाय जन्मदिने वर्धापनम् अर्पयति ।

(3.) ल्यप् प्रत्यय भी दो वाक्यों को जोडता हैः—
(क) शिष्यः विद्यालयं प्रविशति । सः गुरुं प्रणमति ।
शिष्यः विद्यालयं प्रविश्य गुरुं प्रणमति ।

(ख) छात्रा खटिकाम् आनयति । सा श्यामपट्टे लिखति ।
छात्रा खटिकाम् आनीय श्यामपट्टे लिखति ।

(ग) वानरः वृक्षम् आरोहति । सः जम्बुफलानि पातयति ।
वानरः वृक्षम् आरुह्य जम्बुफलानि पातयति ।

(घ) आरक्षकाः सीमाप्रदेशं प्राप्नुवन्ति । ते देशं रक्षन्ति ।
आरक्षकाः सीमाप्रदेशम् प्राप्य देशं रक्षन्ति ।

(ङ) देशभक्ताः मातृभूमिं प्रणमन्ति । ते सुखं लभन्ते ।
देशभक्ताः मातृभूमिं प्रणम्य सुखं लभन्ते ।